श्री भगवत्या: राजराजेश्वर्या:
एकदन्तं महाकायं तप्तकाञ्चनसन्निभम् ।
लम्बोदरं विशालाक्षं वन्देऽहं गणनायकम् ॥
मौञ्जीकृष्णाजिनधरं नागयज्ञोपवीतिनम् ।
बालेन्दुसुकलामौलिं वन्देऽहं गणनायकम् ॥
अम्बिकाहृदयानन्दं मातृभिः परिवेष्टितम् ।
भक्तिप्रियं मदोन्मत्तं वन्देऽहं गणनायकम् ॥
चित्ररत्नविचित्राङ्गं चित्रमालाविभूषितम् ।
चित्ररूपधरं देवं वन्देऽहं गणनायकम् ॥
गजवक्त्रं सुरश्रेष्ठं कर्णचामरभूषितम् ।
पाशाङ्कुशधरं देवं वन्देऽहं गणनायकम् ॥
मूषकोत्तममारुह्य देवासुरमहाहवे
योद्धुकामं महावीर्यं वन्देऽहं गणनायकम् ॥
यक्षकिन्नरगन्धर्वक्ष् सिद्धविद्याधरैस्सदा
स्तूयमानं महाबाहुं वन्देऽहं गणनायकम् ॥
सर्वविघ्नहरं देवं सर्वविघ्नविवर्जितम् ।
सर्वसिद्धिप्रदातारं वन्देऽहं गणनायकम् ॥
ॐ श्री गं गणपतये नमो नम:।।

जय श्रीजी की।।

जय शिवशम्भु।।

– सौजन्य से श्री आनंद बाबा महाराज

 1,286 total views,  1 views today